Featured post

What If a War Broke Out Between Mahabharata and Ramayana Warriors?

An Imaginary Showdown Between Epic Legends — With a Twist! …SORRY FOR THIS…! But hey, sometimes imagination runs wild, and we just have to know: What if the legendary warriors of Ramayana and Mahabharata clashed in a celestial battlefield? Before diving in, let’s spice things up — not with a boring versus battle, but with a mixed team format! Introducing: ⚔️ Team Ramayan ⚔️ Lord Ram — The Maryada Purushottam , an ideal human but also Vishnu Himself. Every divine weapon known, wisdom beyond measure, and a code of honor no one can match. Ravan — The ten-headed demon king. Lifted Kailash, mastered Vedas and astras, feared by the Devas themselves. Indrajeet (Meghnad) — Son of Ravan. Defeated Indra, used illusions ( maya ) and had boons that made him nearly invincible after yajna. Lord Lakshman — Incarnation of Sheshnag . Ram’s right hand and savior of the battlefield. Destroyer of Indrajeet. Lord Hanuman — The unbeatable. Immortal. Blessed by all major deities. Fireproo...

Sri Rama Ashtottara Sata Naama Stotram

 श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।

राजीवलोचनः श्रीमान्राजेन्द्रो रघुपुङ्गवः ॥ 1 ॥

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ॥ 2 ॥

वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः ।
सत्यव्रतो व्रतधरः सदाहनुमदाश्रितः ॥ 3 ॥

कौसलेयः खरध्वंसी विराधवधपण्डितः ।
विभीषणपरित्राता हरकोदण्डखण्डनः ॥ 4 ॥

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
जामदग्न्यमहादर्पदलनस्ताटकान्तकः ॥ 5 ॥

वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ।
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥ 6 ॥

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्तनः ॥ 7 ॥

अहल्याशापशमनः पितृभक्तो वरप्रदः ।
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः ॥ 8 ॥

ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः ।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥ 9 ॥

सर्वदेवादिदेवश्च मृतवानरजीवनः ।
मायामारीचहन्ता च महादेवो महाभुजः ॥ 10 ॥

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥ 11 ॥

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
आदिपुरुषः परमपुरुषो महापूरुष एव च ॥ 12 ॥

पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥ 13 ॥

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ।
मायामानुषचारित्रो महादेवादिपूजितः ॥ 14 ॥

सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः ।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥ 15 ॥

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः ॥ 16 ॥

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
परञ्ज्योतिः परन्धाम पराकाशः परात्परः ॥ 17 ॥

परेशः पारगः पारः सर्वदेवात्मकः परः ॥

एवं श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम्

इति श्री रामाष्टोत्तर शतनामस्तोत्रं सम्पूर्णम्

Comments