Featured post

Dr. Mohan M. Mund: Biography of an Orthopaedic Surgeon Serving Kalahandi

  Dr. Mohan M. Mund is an orthopaedic surgeon associated with Bhawanipatna, Kalahandi, Odisha . Publicly available medical and local healthcare listings identify him as Dr. M. M. Mund, M.S. (Ortho Surgery) , with his professional presence in Bhawanipatna. For people living in Kalahandi and nearby areas, access to specialist orthopaedic care is particularly important because fractures, road-traffic injuries, joint problems and other musculoskeletal conditions often require specialist assessment and treatment. Who is Dr. Mohan M. Mund? Dr. Mohan M. Mund is an orthopaedic specialist practising in the Bhawanipatna area of Kalahandi district. The website of Maa Manikeswari Hospital, Bhawanipatna , lists Dr. Mohan Mund among its consultant doctors and specifically gives his qualification as M.S. (Ortho Surgery) . The same hospital identifies itself as having a medical team and 24-hour emergency services. A separate local healthcare directory also lists “Dr. M.M. Mund M.S. (Ortho-...

SRI RAM RAKSHA STOTRAM

ॐ अस्य श्री रामरक्षा स्तोत्रमंत्रस्य
बुधकौशिक ऋषिः
श्री सीताराम चंद्रोदेवता
अनुष्टुप् छंदः
सीता शक्तिः
श्रीमद् हनुमान् कीलकम्
श्रीरामचंद्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥

ध्यानम्
ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं
पीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम् ।
वामांकारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं
नानालंकार दीप्तं दधतमुरु जटामंडलं रामचंद्रम् ॥

स्तोत्रम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातक नाशनम् ॥ 1 ॥

ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् ।
जानकी लक्ष्मणोपेतं जटामुकुट मंडितम् ॥ 2 ॥

सासितूण धनुर्बाण पाणिं नक्तं चरांतकम् ।
स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ॥ 3 ॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु फालं (भालं) दशरथात्मजः ॥ 4 ॥

कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ 5 ॥

जिह्वां विद्यानिधिः पातु कंठं भरतवंदितः ।
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ 6 ॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जांबवदाश्रयः ॥ 7 ॥

सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ॥ 8 ॥

जानुनी सेतुकृत्-पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ 9 ॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ 10 ॥

पाताल-भूतल-व्योम-चारिण-श्चद्म-चारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ 11 ॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विंदति ॥ 12 ॥

जगज्जैत्रैक मंत्रेण रामनाम्नाभि रक्षितम् ।
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ 13 ॥

वज्रपंजर नामेदं यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥ 14 ॥

आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः ॥ 15 ॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ 16 ॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुंडरीक विशालाक्षौ चीरकृष्णाजिनांबरौ ॥ 17 ॥

 फलमूलाशिनौ दांतौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ 18 ॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुल निहंतारौ त्रायेतां नो रघूत्तमौ ॥ 19 ॥

आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषंग संगिनौ ।
रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छताम् ॥ 20 ॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ॥ 21 ॥

रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली ।
काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ 22 ॥

वेदांतवेद्यो यज्ञेशः पुराण पुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥ 23 ॥

इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥ 24 ॥

रामं दूर्वादल श्यामं पद्माक्षं पीतवाससम् ।
स्तुवंति नाभि-र्दिव्यै-र्नते संसारिणो नराः ॥ 25 ॥

रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम्
वंदे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ॥ 26 ॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 27 ॥

श्रीराम राम रघुनंदन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥ 28 ॥

श्रीराम चंद्र चरणौ मनसा स्मरामि
श्रीराम चंद्र चरणौ वचसा गृह्णामि ।
श्रीराम चंद्र चरणौ शिरसा नमामि
श्रीराम चंद्र चरणौ शरणं प्रपद्ये ॥ 29 ॥

माता रामो मत्-पिता रामचंद्रः
स्वामी रामो मत्-सखा रामचंद्रः ।
सर्वस्वं मे रामचंद्रो दयालुः
नान्यं जाने नैव जाने न जाने ॥ 30 ॥

दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ॥ 31 ॥

लोकाभिरामं रणरंगधीरं
राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं
श्रीरामचंद्रं शरण्यं प्रपद्ये ॥ 32 ॥

मनोजवं मारुत तुल्य वेगं
जितेंद्रियं बुद्धिमतां वरिष्टम् ।
वातात्मजं वानरयूथ मुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥ 33 ॥

कूजंतं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्यकविता शाखां वंदे वाल्मीकि कोकिलम् ॥ 34 ॥

आपदामपहर्तारं दातारं सर्वसंपदाम् ।
लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम् ॥ 35 ॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ 36 ॥

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ 37 ॥

श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ 38 ॥

इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं संपूर्णम् ।

श्रीराम जयराम जयजयराम ।

Comments